निम्नलिखितम् अनुच्छेदं पठित्वा
प्रश्नानाम् उत्तराणि लिखत – ५
प्रातःकालीन-भ्रमणस्य अस्माकं
दिनचर्यायां बहु महत्त्वम् अस्ति |
अनेन स्वास्थ्यम्
उत्तमं भवति | प्रातः काले वायुः
शुद्धः वहति येन शरीरे ऊर्जायाः
सञ्चारः भवति | वातावरणे अपि पवित्रता भवति | यदि कोऽपि जनः प्रतिदिनं पञ्चकिलोमीटर्-पर्यन्तं
चलति तदा तस्य शरीरे कोऽपि रोगः न
भविष्यति | व्यायामस्य अपि यो लाभः प्रातःकाले मिलति सः अनन्तरं न मिलति | अस्माभिः सूर्योदयात् पूर्वं एव
उत्थातव्यं यतोहि तदैव वातावरणे प्राणवायोः ( आक्सीजन् ) अपि अधिकता भवति |
एकपदेन उत्तरत – १
i. प्रातः काले वातावरणे किं भवति ?
ii. अस्माकं दिनचर्यायां कस्य बहु महत्त्वम् अस्ति ?
पूर्णवाक्येन उत्तरत –
२
अस्माभिः कदा
उत्थातव्यम् ?
निर्देशानुसारम् उत्तरत – २
i. ‘ हानिः ’ इत्यस्य किं
विपरितार्थकं पदं गद्यांशे प्रयुक्तम् ?
क. अपि ख. पूर्वम् ग. लाभः घ. अपि
ii. ‘ वहति ’ इति क्रिया पदस्य
कर्तृ पदम् किम् अस्ति ?
क. प्रातःकाले ख. शुद्धः ग. वायुः घ. अपि
No comments:
Post a Comment