18 मार्च 2016 को अखिल भारतीय नवोदित संस्कृत सम्मेलन में स्वरचित कविता '' आरक्षणम् '' के लिये संस्कृत अकादमी द्वारा सम्मानित किया गया |
आरक्षणम्
जनेषु यदि भ्रातृभावः नास्ति
मनसि यदि प्रेमभावः नास्ति
आरक्षणस्य लाभ किम्
गुर्जरः वाञ्छति माम् आरक्षणम् मिलेत्
देशे यदि न भवतु सौहार्द भावना .......तर्हि
आरक्षणस्य लाभ किम्
जट्ट: भणति देहि माम् , पटेलः वदति देहि माम्
युद्धाय सन्नधाः जनाः, भवन्ति हिंसकाः .....तर्हि
आरक्षणस्य लाभ किम्
नोन्नत जनस्य उन्नतिः भवेद् आरक्षणेन
उद्विग्नाः यदि ते जनाः ये सन्ति समृद्धाः .....तर्हि
आरक्षणस्य लाभ किम्
मुकेश शाण्डिल्यः शास्त्री
डी. ए. वी. खेडा खुर्द
दिल्ली – 82


No comments:
Post a Comment